Saṃskārā-s & ātma-guṇa-s

कर्मजन्योऽभ्युदयनिःश्रेयसहेतुरपूर्वाख्य आत्मगुणो धर्मः ।

गौतम धर्मसूत्रम् हरदत्त व्याख्याने निर्वचितम् ।


 Saṃskārā-s are dependent on the paramparā-s that one belongs to but the striving for the attainment of all the 8 ātma-guṇa-s is common to all people in the world.

अथ प्रथमप्रश्ने अष्टमोऽध्यायः


चत्वारिंश्त्संस्कारैरित्युक्तं तानाह -

40 Saṃskārā-s that are listed here below are obligated for a learned Brāhmaṇa who the Gautama Dharma Sūtrā-s declare is one of the two pillars of the society along with the Rājā (sovereign). 


गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणअन्नप्राशनचौलोपनयनम् । (14)


चत्वारि वेदव्रतानि । (15)


स्नानं सहधर्मचारिणीसंयोगः । (16)


पञ्चानां यज्ञानामनुष्ठानं देवपितृमनुष्यभूतब्रह्मणाम् । (17)


अष्टका पार्वणः श्राद्धं श्रावण्याग्रयणी चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः । (19)


अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः । (20)


अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमसंस्थाः । (21) इत्येते चत्वारिंशत्संस्काराः । (22)


अथाष्टावात्मगुणाः । (23)


दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पणयमस्पृहेति । (24)

        आत्मवत्सर्वभूतेषु यद्धिताय शिवाय च ।

        वर्तते सततं हृष्टः कृत्स्ना ह्येषा दया स्मृता ॥ (1)

        आक्रुष्टोऽभिहितो वाऽपि न क्रोशेन्न च ताडयेत् । 

        अदुष्टो वाङ्मनःकायैः सा तितिक्षा क्षमास्मृता ॥ (2)

        यो धर्ममर्थं कामं च लभते मोक्षमेव च ।

        न द्विष्यात्तं सदा पाज्ञः साऽनसूया स्मृता बुधैः ॥ (3)

        द्रव्यशौचं मनःशौचं वाचिकं कायिकं तथा । 

        शौचं चतुर्विधं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ (4)

        यदारम्भे भवेत्पीडा नित्यमत्यन्तमात्मनः ।

        तद्वर्जयेद्धर्म्यमपि सोऽनायासः प्रकीर्तितः ॥ (5)

        प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् । 

        एतद्धि मङ्गलं प्रोक्तं मुनिॆभिस्तत्त्वदर्शिभिः ॥ (6)

        आपद्यपि च कष्टायां  भवेद्दीनो न कस्यचित् । 

        संविभागरुचिश्च स्यात्तदकार्पण्यमुच्यते ॥ (7)

        विवर्जयेदसंतोषं विषयेषु सदा नरः ।

        परद्रव्याभिलाषं च साऽस्पृहा कथ्यते बुधै ॥ (8)


References:


"Hindu Dharma", a book containing translation of speeches (kamakoti.org)


Gautama Dharma Sutra Hindi Pdf : my libreary : Free Download, Borrow, and Streaming : Internet Archive